|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.92. अध्यायः 092
Mahabharata - Sabha Parva - Chapter Topics
दुर्योधनवचनम्॥ 1॥ दुर्योधनेन द्रौपदीं प्रति निजोरौ प्रदर्शिते भीमेन तद्भेदनप्रतिज्ञा॥2॥ अर्जुनादिभिः कर्णादिहननप्रतिज्ञा॥ 3॥ द्रौपद्या दुर्योधनादीनां शापदानसमये अन्तरिक्षात्पुष्पवृष्टिः॥ 4॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
तथा तु दृष्ट्वा बहु तत्र देवीं
रोरूयमाणां कुररीमिवार्ताम्।
नोचुर्वचः साध्वथवाऽप्यसाधु
महीक्षितो धार्तराष्ट्रस्य भीताः॥ 2-92-1(15033)
दृष्ट्वा तथा पार्थिवपुत्रपौत्रां-
स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः।
स्मयन्निवेदं वचनं बभाषे
पाञ्चालराजस्य सुतां तदानीम्॥ 2-92-2(15034)
दुर्योधन उवाच॥ 2-92-3x(1651)
तिष्ठत्वयं प्रश्न उदारसत्वे
भीमेऽर्जुने सहदेवे तथैव।
पत्यौ च ते नकुले याज्ञसेनि
वदन्त्वेते वचनं त्वत्प्रसूतम्॥ 2-92-3(15035)
अनीश्वरं विब्रुवन्त्वार्यमध्ये
युधिष्ठिरं तव पाञ्चालि हेतोः।
कुर्वन्तु सर्वे चानृतं धर्मराजं
पाञ्चालि त्वं मोक्ष्यसे दासभावात्॥ 2-92-4(15036)
धर्मे स्थितो धर्मसुतो महात्मा
स्वयं चेदं कथयत्विन्द्रकल्पः।
ईशो वा ते ह्यनीशोऽथवैष
वाक्यादस्य क्षिप्रमेकं भजस्व॥ 2-92-5(15037)
सर्वे हीमे कौरवेयाः सभायां
दुःखान्तरे वर्तमानास्तवैव।
न विब्रुवन्त्यार्यसत्वा यथाव-
त्पतींश्च ते समवेक्ष्याल्पभाग्यान्॥ 2-92-6(15038)
वैशम्पायन उवाच॥ 2-92-7x(1652)
ततः सभ्याः कुरुराजस्य तस्य
वाक्यं सर्वे प्रशशंसुस्तथोच्चैः।
चेलावेधांश्चापि चक्रुर्नदन्तो
हाहेत्यासीदपि चैवार्तनादः॥ 2-92-7(15039)
श्रुत्वा तुं तद्वाक्यमनोहरं त-
द्धर्षश्चासीत्कौरवाणां सभायाम्।
सर्वे चासन्पार्थिवाः प्रीतिमन्तः
कुरुश्रेष्ठं धार्मिकं पूजयन्तः॥ 2-92-8(15040)
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः।
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः॥ 2-92-9(15041)
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः।
भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः॥ 2-92-10(15042)
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम्।
प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम्॥ 2-92-11(15043)
यद्येष गुरुरस्माकं धर्मराजो महामनाः।
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि॥ 2-92-12(15044)
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः।
मन्यते जितमात्मानं यद्येष विजिता वयम्॥ 2-92-13(15045)
न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन्।
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान्॥ 2-92-14(15046)
पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव।
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः॥ 2-92-15(15047)
धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम्।
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च॥ 2-92-16(15048)
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव।
धार्तराष्टारानिमान्पापान्निष्पषेयं तलासिभिः॥ 2-92-17(15049)
वैशम्पायन उवाच॥ 2-92-18x(1653)
तमुवाच तदा भीष्मो द्रोणो विदुर एव च।
क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि॥ 2-92-18(15050)
कर्ण उवाच॥ 2-92-19x(1654)
त्रयः किलेमे ह्यधना भवन्ति।
दासः पुत्रश्चास्वतन्त्रा च नारी।
दासस्य पत्नी त्वधनस्य भद्रे
हीनश्वरा दासधनं च सर्वम्॥ 2-92-19(15051)
प्रविश्य राज्ञः परिवारं भजस्व
तत्ते कार्यं शिष्टमादिश्यतेऽत्र।
ईशास्तु सर्वे तव राजपुत्रि
भवन्ति वै धार्तराष्ट्रा न पार्थाः॥ 2-92-20(15052)
अन्यं वृणीष्व पतिमाशु भामिनि
यस्माद्दास्यं न लभसि देवनेन।
अवाच्या वै पतिषु कामवृत्ति-
र्नित्यं दास्ये विदितं तत्तवास्तु॥ 2-92-21(15053)
पराजितो नकुलो भीमसेनो
युधिष्ठरः सहदेवार्जुनौ च।
दासीभूता त्वं हि वै याज्ञसेनि
पराजितास्ते पतयो नैव सन्ति॥ 2-92-22(15054)
प्रयोजनं जन्मनि किं न मन्यते
पराक्रमं पौरुषं चैव पार्थटः।
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां
सभामध्ये यो व्यदेवीद्ग्लहेषु॥ 2-92-23(15055)
वैशम्पायन उवाच॥ 2-92-24x(1655)
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी
भृशं निशश्वास तदाऽर्तरूपः।
राजानुगो धर्मपाशानुबद्धो
दहन्निवैनं क्रोधसंरक्तदृष्टिः॥ 2-92-24(15056)
भीम उवाच॥ 2-92-25x(1656)
नाहं कुप्ये सूतपुत्रस्य राज-
न्नेष सत्यं दासधर्मः प्रदिष्टः।
किं विद्विषो वै मामेवं व्याहरेयु-
र्नादेवीस्त्वं यद्यनया नरेन्द्र॥ 2-92-25(15057)
वैशम्पायन उवाच॥ 2-92-26x(1657)
भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा।
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम्॥ 2-92-26(15058)
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने।
प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे॥ 2-92-27(15059)
एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम्।
स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः॥ 2-92-28(15060)
कदलीदण्डसदृशं सर्वलक्षणसंयुतम्।
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्॥ 2-92-29(15061)
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव।
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्॥ 2-92-30(15062)
भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते।
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव॥ 2-92-31(15063)
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः।
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे॥ 2-92-32(15064)
वैशम्पायन उवाच॥ 2-92-33x(1658)
क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः।
वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः॥ 2-92-33(15065)
विदुर उवाच॥ 2-92-34x(1659)
परं भयं पश्यत भीमसेना-
त्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः।
दैवेरितो नूनमयं पुरस्ता-
त्परोऽनयो भरतेषूदपादि॥ 2-92-34(15066)
अतिद्यूतं कृतमिदं धार्तराष्ट्र
यस्मात्स्त्रियं विवदध्वं सभायाम्।
योगक्षेमौ नश्यतो वः समग्रौ
पापान्मन्त्रान्कुरवो मन्त्रयन्ति॥ 2-92-35(15067)
इमं धर्मं कुरवो जानताशु
ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत्।
इमां चेत्पूर्वं कितवोऽग्लहिष्य-
दीशोऽभविष्यदपराजितात्मा॥ 2-92-36(15068)
स्वप्ने यथैतद्विजितं धनं स्या-
देवं मन्ये यस्य दीव्यत्यनीशः।
गान्धारराजस्य वचो निशम्य
धर्मादस्मात्कुरवो माऽपयात॥ 2-92-37(15069)
दुर्योधन उवाच॥ 2-92-38x(1660)
भीमस्य वाक्ये तद्वदेवार्जुनस्य
स्थितोऽहं वै यमयोश्चैवमेव।
युधिष्ठिरं ते प्रवदन्त्वनीश-
मथो दास्यान्मोक्षसे याज्ञसेनि॥ 2-92-38(15070)
अर्जुन उवाच॥ 2-92-39x(1661)
ईशो राजा पूर्वमासीद्ग्लहे नः
कुन्तीसुतो धर्मराजो महात्मा।
ईशस्त्वयं कस्य पराजितात्मा
तज्जानीध्वं कुरवः सर्व एव॥ 2-92-39(15071)
`कर्ण उवाच॥ 2-92-40x(1662)
दुश्शासन निबोधेदं वचनं वै प्रभाषितम्।
किमनेन चिरं वीर नयस्व द्रपदात्मजाम्।
दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन॥ 2-92-40(15072)
वैशम्पायन उवाच॥ 2-92-41x(1663)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्।
साधु कर्ण महाबाहो यथेष्टं क्रियतामिति॥ 2-92-41(15073)
ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात्।
प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान्॥
ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी॥ 2-92-42(15074)
द्रौपद्युवाच। 2-92-44x(1664)
परित्रायस्व मां भीष्ण द्रोण द्रौणे तथा कृप।
परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल॥ 2-92-44(15075)
धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम्।
गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि।
पिरत्रायस्व मां भीरुं सुयोधनभयार्दिताम्॥ 2-92-45(15076)
त्वमार्ये वीरजननि किं मां पश्यसि यादवीम्।
क्लिश्यमानामनार्येण न त्रायसिव वधूं स्वकाम्॥ 2-92-46(15077)
यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत्।
हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता॥ 2-92-47(15078)
न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट्।
न चायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम्॥
धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता॥ 2-92-48(15079)
विदुर उवाच॥ 2-92-50x(1665)
शृणोमि वाक्यं तव राजपुत्रि
नेमे पार्थाः किञ्चिदपि ब्रुवन्ति।
सा त्वं प्रियार्थं शृणु वाक्यमेत-
द्यदुच्यते पापमतिः कृतघ्नः॥ 2-92-50(15080)
सुयोधनः सानुचरः सुदुष्टः
सहैव राजा निकृतः सूनुना च
यद्येष वाचं महदुच्यमानां
न श्रोष्यते पापमतिः सुदुष्टः॥ 2-92-51(15081)
वैशम्पायन उवाच॥ 2-92-52x(1666)
इत्येवमुक्त्वा द्रुपदस्य पुत्रीं
क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम्। 2-92-52(15082)
मा क्लिश्यतां वै द्रुपदस्य पुत्रीं
मा त्वं चरीं द्रक्ष्यसि राजपुत्र॥ 2-92-53(15083)
विदुर उवाच॥ 2-92-54x(1667)
यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम्।
अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः।
गमिष्यति क्षयं पापः पाण्डवक्षयकारणात्॥ 2-92-54(15084)
भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च।
तस्मान्निवारय सुतं मा विनाशं विचिन्तय॥ 2-92-55(15085)
वैशम्पायन उवाच॥ 2-92-56x(1668)
एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत्।
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः॥ 2-92-56(15086)
अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः।
ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः॥ 2-92-57(15087)
ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम्।
वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते॥ 2-92-58(15088)
एतत्समीक्ष्यात्मनि चावमानं
नियम्य मन्युं बलनान्स मानी।
राजानुजः संसदि कौरवाणां
विनिष्क्रमन्वाक्यमुवाच भीमः॥ 2-92-59(15089)
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति॥ 2-92-60(15090)
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः।
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति॥ 2-92-61(15091)
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले॥ 2-92-62(15092)
वक्षः शूरस्य निर्वास्य परुषस्य दुरात्मनः।
दुश्शासनस्य रुधिरं पास्यामि मृगराडिव॥ 2-92-63(15093)
अर्जुन उवाच॥ 2-92-64x(1669)
भीमसेन न ते सन्ति येषां वैरं त्वया सह।
नन्दा गृहेषु न बुद्ध्यन्ते महद्भयम्॥ 2-92-64(15094)
नैव वाचा व्यवसितं भीम विज्ञायते सताम्।
यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह॥ 2-92-65(15095)
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः।
दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम्॥ 2-92-66(15096)
असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम्।
भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे॥ 2-92-67(15097)
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः।
ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः।
तान्स्म सर्वञ्छितैर्बाणैर्नेताऽस्मि यमसादनम्॥ 2-92-68(15098)
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि॥ 2-92-69(15099)
वैशम्पायन उवाच॥ 2-92-70x(1670)
उत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्॥ 2-92-70(15100)
सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत्।
क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः॥ 2-92-71(15101)
सहदेव उवाच॥ 2-92-72x(1671)
यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर।
नैते ह्यक्षाः शिता वाणास्त्वयैते समरे धृताः॥ 2-92-72(15102)
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्।
कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः।
यदि स्थस्यासि सङ्ग्रामे क्षत्रधर्मेण सौबल॥ 2-92-73(15103)
वैशम्पायन उवाच॥ 2-92-74x(1672)
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्॥ 2-92-74(15104)
नकुल उवाच॥ 2-92-75x(1673)
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः।
यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः॥ 2-92-75(15105)
धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान्।
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम्॥ 2-92-76(15106)
उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम्।
हन्ताऽहमस्मि समरे मम शत्रुं नराधमम्॥ 2-92-77(15107)
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्।
नर्धार्तराष्टां पृथिवीं कर्तास्मि नचिरादिवा॥ 2-92-78(15108)
द्रौपद्युवाच॥ 2-92-79x(1674)
यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे।
तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति॥ 2-92-79(15109)
यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान्।
तस्मादुधिरमेवास्य पास्यते वै वृकोदरः॥ 2-92-80(15110)
इमं च पापिष्ठमतिं कर्णं समुतबान्धवम्।
सामात्यं सपरीवारं हनिष्यति धनञ्जयः॥ 2-92-81(15111)
क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम्।
सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम्॥ 2-92-82(15112)
वैशम्पायन उवाच॥ 2-92-83x(1675)
एवमुक्ते तु वचने द्रौपद्या धर्मशीलया।
ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापततम्॥ 2-92-83(15113)
तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः।
अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै॥ ॥ 2-92-84(15114)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्विनवतितमोऽध्यायः॥92 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-92-13 द्रौपदीपणनात् प्रागिति शेषः। अतो द्रौपदी न दासभावमापन्नेति भावः॥ 2-92-16 पश्यसितः पाशबद्धः॥ 2-92-33 स्रोतोभ्यः रोमकूपेभ्यः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|